Ganesh Sankatnashanam Stotram | गणेश संकटनाशनं स्तोत्रं | Modern Mantras
Автор: SarvaSwa Entertainment
Загружено: 2026-02-20
Просмотров: 81
Описание:
Ganesh Sankatnashanam Stotram | गणेश संकटनाशनं स्तोत्रं | Modern Mantras
।। श्री गणेशायनमः ।।
।।नारद उवाच ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।
भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ।।१।।
प्रथमं वक्रतुंड च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।। २।।
लंबोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्न राजेन्द्रं धूम्रवर्णं तथाष्टमम्।। ३।।
नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्।। ४।।
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिध्दिकरं प्रभो।। ५।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।। ६।।
जपेत् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवत्सरेण सिध्दिं च लभते नात्र संशयः।। ७।।
अष्टभ्यो ब्राम्हणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः।। ८।।
इति श्री नारदपुराणे संकटनाशनं नाम महागणपतिस्तोत्रं संपूर्णम्।।
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: