बगलामुखी अष्टकम् सर्व मनोकामना पूर्ण करने वाला स्तोत्र
Автор: महाशक्ति सिद्धविद्या
Загружено: 2025-07-05
Просмотров: 4922
Описание:
बगलामुखी अष्टकम् सर्व मनोकामना पूर्ण करने वाला स्तोत्र @Mahashaktisiddhvidya #video #bagalamukhi #maa #mahavidya #tantra
........बगलामुखी अष्टकम्........
सेयं नित्यं विशुद्धं यदपि नुतिशतैर्बोधितं वेदवाक्यैः । सच्चिद्रूपं प्रसन्नं विलसितमखिलं शक्तिरूपेण ज्ञातुम ॥ शक्यं चैतां प्रजुष्टां भवविलयकरीं शुद्ध संवित्स्वरूपं । नाम्ना पीताम्बराढ्यां सतत सुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 1 ॥
गौराभां शुभ्रदेहां दनुजकुलहरां ब्रह्मरूपा तुरीयां। वज्रं पाशं च जिह्वामसुरभयकरीं लौहबद्धां गदाख्याम् ॥ हस्तैर्नित्यं वहन्ती द्विजरवरमुकुटां स्वर्णसिंहासनस्थां । नाम्ना पीताम्बराढ्यां सतत सुखकरी नौमि नित्यं प्रसन्नाम् ॥ 2 ॥
कौर्मरूपं विधात्रीं कृतयुग समये स्तब्धरूपां स्थिराख्यां । हारिद्रे दिव्यदेहां विवुधगणनुतां विष्णुनावन्दिता ताम् ॥ आनर्चुः स्कन्दमुख्याः स्मरहरमहिलां तारके संविवृद्धे । नाम्रा पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ ३ ॥
आधारे तत्वरूपां त्रिवलय सहितां योगिवृन्दैः सुध्येयां। पीतां रूद्रेण सार्धं रतिरसनिरतां चिन्तयित्वा मनोज्ञाम् ॥ गद्य पद्यं लभन्ते नवरस भरित सान्द्रचन्द्रांशुवर्णां । नाम्ना पीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसत्राम् ॥ 4 ॥
मायावीजं महोग्रं पशुजभयहरं भूमियुक्तं जपन्ति । पुत्रेः पौत्रेः समेताः प्रणिहितमनसः प्राप्य भोगान् समस्तान् ॥ लब्ध्वा चान्ते विमोक्षं विगतभवभयामोदमाना भवन्ति । नाम्रापीताम्बराढ्यां सततसुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 5 ॥
ध्यानं मातस्त्वदीयं जपमनुसततं मंत्रराजस्य नित्यं ।
दुष्टैः कृत्या स्वरूपा वलग इति कृता आशु शांतिं प्रयान्ति ॥ तस्मादाख्यां त्वदीयां द्विभुज परिणतामुग्रवेषां सुभीमां । नाम्रा पीताम्बराढ्यां सतत सुखकरी नौमि नित्यं प्रसन्नाम् ॥ 6 ॥
जप्त्वाबीजं त्वदीयं यदि तव सुजनो याति विद्वेषिमध्ये । रूपं दुष्ट्वा त्वदीयं रिपुजन सकलः स्तम्भनं याति शीघ्रम् ॥ गर्वी खर्वत्वमेति श्रवणपथगते नामवर्णे त्वदीये । नाम्रा पीताम्बरढ्यां सतत सुखकरीं नौमि नित्यं प्रसन्नाम् ॥ 7 ॥
ब्राह्मा विष्णुर्महेशो जपति तवमनुं भावयुक्तं महेशि। लब्ध्वा काम स्वरूपं समरसनिरता दिव्यभावं भजन्ते । तामेवाहं भवानीं भवसुखविरतो भावयुक्तं स्मरामि । नाम्रा पीताम्बराढ्यां सततसुखकरीं नौमिनित्यं प्रसन्नाम ॥ 8 ॥
धन्यास्ते भक्तियुक्ताः सततजपपराहीनवर्णेऽपि जाता। वैमुख्ये लग्नचित्ता यदपि कुलपरा नो प्रशस्याः कदाचित् ॥ इत्थं सश्चिन्त्य मातः ! प्रतिदिनममलं नामरूपं त्वदीयं ।
सर्व सन्त्यज्य नित्यं सतत भयहरे ! कीर्तये सर्वदाऽहम् ॥ 9
स्तोत्रेणाऽनेन देवेशि ! कृपां कृत्वा ममोपरि।
बगलामुखि ! मे चित्ते वासं कुरू सदाशिवे ॥ 10 ॥
यः कश्चित् प्रपठेत्रित्यं प्रातरूत्थाय भक्तिः ।
तस्य पीताम्बरा देवी शीघ्रं तुष्टिं समेष्यति ॥ 11 ॥
प्रयतो ध्यानसंयुक्तो जपान्ते यः पठेत् सुधीः । धनधान्यादिसम्पन्न सात्रिध्यं प्राप्नुयाद् द्रुतम् ॥ 12 ॥
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: