बगलामुखी हृदय स्तोत्र सिद्धि का भण्डार
Автор: महाशक्ति सिद्धविद्या
Загружено: 2025-08-16
Просмотров: 2703
Описание:
बगलामुखी हृदय स्तोत्र सिद्धि का भण्डार @Mahashaktisiddhvidya #bagalamukhi #maa #mahavidya #tantra #mantra #stotram
।। अथ बगलाहृदयम् ॥
श्रीदेव्युवाच इदानीं खलु मे देव बगलाहृदयं प्रभो।
कथयस्व महादेव यद्यहं तव वल्लभ ॥
ईश्वर उवाच--
साधु साधु महाप्राज्ञे सर्वतन्त्रार्थसाधिके । ब्रह्मास्त्रदेवतायाश्च हृदयं वच्मि तत्त्वतः ॥
प्रणवं पूर्वमुच्चार्य स्थिरमायां ततो वदेत्।
सम्बोधनपदेनैव बगलामुखि उद्धरेत् ॥
तदग्रे सर्वदुष्टानां ततो वाचं पदं मुखम्।
स्तम्भयेति ततो जिह्वां कीलयेति पदं ततः ॥
बुद्धिं विनाशय इति स्थिरमायां ततोऽग्रतः ।
वदेच्च पुनरोङ्कार स्वाहेति च पदं ततः ॥
षट्त्रिंशदक्षरी विद्या सद्यः स्तम्भनकारिणी।
अङ्गन्यासं ततः कुर्यात् स्थिरमायां हृदि न्यसेत् ॥
मूल पाठ - -
बगलामुखि तु शिरसि सर्वदुष्टानां शिखासु च।
वाचं मुखं पदं चैव कवचे विन्यसेत्ततः ॥
जिह्वां कीलय नेत्रयुग्मे आस्ये बुद्ध्यादिकं तथा।
गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ॥
चतुर्भुजां त्रिनयनां कमलासनासंस्थिताम् । ऊर्ध्वकेशजटाजूटां करालवदनाम्बुजाम् ॥
मुद्गरं दक्षिणे हस्ते पाशं वामेन धारिणाम्।
रिपोर्जिह्वां त्रिशूले च पीतगन्धानुलेपनाम् ॥
पीताम्बरधरां सान्द्रदृढपीनपयोधराम् ।
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् ॥ पीतभूषणभूषाढ्यां स्वर्णसिंहासने स्थिताम् ।
स्वानन्दानुमयीं देवीं रिपुस्तम्भनकारिणीम् ।।
मदनस्य रतेश्चापि प्रीतिस्तम्भनकारिणी।
महाविद्या महामाया महामेधा महाशिवा ।।
महामोहा महासूक्ष्मा साधकस्य वरप्रदा।
राजसी सात्त्विकी सत्या तामसी तैजसी स्मृता ॥
तस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत् क्षणात् ।
गणेशो बटुकश्चैव योगिन्यः क्षेत्रपालकः ॥
गुरवश्च गुणास्तिस्त्रो बगला स्तम्भिनी तथा।
जृम्भिणी मोदिनी चाम्बा बालिका भूधरा तथा ॥
कलुषा करुणा धात्री कालकर्षिणिका परा।
भ्रामरी मन्दगमना भगस्था चैव भासिका ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी रमा।
वाराही च तथेन्द्राणी चामुण्डा भैरवाऽष्टकम् ॥
भगस्य पातिनी पश्चात् भगमालिनी षष्ठिका । उड्डीयानपीठनिलया जालन्धरपीठसंस्थिता ।
कामरूपे तथा संख्या देवीत्रितयमेव च।
सिद्धौघा मानवौघाश्च दिव्यौघा गुरवः क्रमात् ॥
क्रोधिनी जृम्भिणी चैव देव्याश्चोभयपार्श्वयोः । पूज्यस्त्रिपुरनाथश्च या महाविद्या सत्यं सत्यं वरानने ।
एषा सा वैष्णवी माया विद्यां यत्नेन गोपयेत् ॥ ब्रह्मास्त्रदेवतायाश्च हृदयं परिकीर्तितम् ।
ब्रह्मास्त्रं त्रिषु लोकेषु दुष्प्राप्यं त्रिदशैरपि ॥
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्।
गुरुभक्ताय दातव्यं वत्सरं दुःखिताय वै ॥
मातृपितृरतो यस्तु सर्वज्ञानपरायणः ।
तस्मै देयमिदं देवि बगलाहृदयं परम् ॥
सर्वार्थसाधकं दिव्यं पठनाद् भोगमोक्षदम् ।
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: