(96) Shrimadbhagwatam श्रीमद्भागवतमहापुराणं तृतीयस्कन्धः त्रयोविंशोऽध्यायः - श्लोक 1-11
Автор: Sanskritam संस्कृतम् डॉ श्रेयांश द्विवेदी
Загружено: 2026-03-05
Просмотров: 25
Описание:
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ त्रयोविंशोऽध्यायः - २३ ॥
श्रीमद्भागवतमहापुराणं श्रीमद्भागवतमहापुराणं तृतीयस्कन्धः त्रयोविंशोऽध्यायः - श्लोक 1-11 प्रस्तुतिः - डॉ श्रेयांश द्विवेदी
मैत्रेय उवाच ।
पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ।
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् ॥ १॥
विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।
शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २॥
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३॥
स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।
दैवाद्गरीयसः पत्युराशासानां महाशिषः ॥ ४॥
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ ५॥
कर्दम उवाच ।
तुष्टोऽहमद्य तव मानवि मानदायाः
शुश्रूषया परमया परया च भक्त्या ।
यो देहिनामयमतीव सुहृत्स्वदेहो
नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ ६॥
ये मे स्वधर्मनिरतस्य तपः समाधि-
विद्याऽऽत्मयोगविजिता भगवत्प्रसादाः ।
तानेव ते मदनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७॥
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।
सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ ८॥
एवं ब्रुवाणमबलाखिलयोगमाया-
विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।
सम्प्रश्रयप्रणयविह्वलया गिरेषद्-
व्रीडावलोकविलसद्धसिताननाऽऽह ॥ ९॥
देवहूतिरुवाच ।
राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्तः ।
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥ १०॥
तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा ।
सिद्ध्येत ते कृतमनोभवधर्षिताया
दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११॥
डॉ श्रेयांश द्विवेदी
Dr Shreyansh Dwivedi
#shrimadvalmikiramayan
#balkand
#culture
#epic
#sanskrit
#history
#first poet of the world
#Shreyanshdwivedi
#geetadham
#motidham
#bundelkhand
#jharkhandeshwarmahadev
#khandarka
#ssvvvaranasi
#bhu
#bujhansi
#ccu
#maharshimaheshyogivaidikuniversity
#dharmsanghsanskritcollegedelhi
#gbscollegerohtak
#SCERTHaryana
#hsvbaghola
#hsapanchkula
#mvsukaithal
#edgovharyana
#jyotishanusandhankend
#Chhand
#Metre
#vyakaran
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: