(87 ) Shrimadbhagwatam श्रीमद्भागवतमहापुराणं तृतीयस्कन्धः एकविंशोऽध्यायः - श्लोक 01-12
Автор: Sanskritam संस्कृतम् डॉ श्रेयांश द्विवेदी
Загружено: 2026-02-24
Просмотров: 53
Описание:
॥ ॐ नमो भगवते वासुदेवाय ॥
॥ एकविंशोऽध्यायः - २१ ॥
श्रीमद्भागवतमहापुराणं श्रीमद्भागवतमहापुराणं तृतीयस्कन्धः एकविंशोऽध्यायः - श्लोक 01-12 प्रस्तुतिः - डॉ श्रेयांश द्विवेदी
विदुर उवाच ।
स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः ।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥ १॥
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २॥
तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।
पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३॥
तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।
ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४॥
रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५॥
मैत्रेय उवाच ।
प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६॥
ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७॥
तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।
दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८॥
स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।
स्निग्द्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम् ॥ ९॥
किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।
श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १०॥
विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः ।
दृष्ट्वा खेऽवस्थितं वक्षःश्रियं कौस्तुभकन्धरम् ॥ ११॥
जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः ।
गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलिः ॥ १२॥
डॉ श्रेयांश द्विवेदी
Dr Shreyansh Dwivedi
#shrimadvalmikiramayan
#balkand
#culture
#epic
#sanskrit
#history
#first poet of the world
#Shreyanshdwivedi
#geetadham
#motidham
#bundelkhand
#jharkhandeshwarmahadev
#khandarka
#ssvvvaranasi
#bhu
#bujhansi
#ccu
#maharshimaheshyogivaidikuniversity
#dharmsanghsanskritcollegedelhi
#gbscollegerohtak
#SCERTHaryana
#hsvbaghola
#hsapanchkula
#mvsukaithal
#edgovharyana
#jyotishanusandhankend
#Chhand
#Metre
#vyakaran
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: