श्रीबगलामुखी सहस्रनामस्तोत्रम् (गुरु श्री शिव दत्त स्मारक गड्डी , जोधपुर ) 9414849604
Автор: Rajendra Kumar Vyas Palji
Загружено: 2022-03-19
Просмотров: 28709
Описание:
॥ अथ श्रीपीताम्बरीसहस्रनामस्तोत्रम् वा
श्रीबगलामुखी सहस्रनामस्तोत्रम् ॥
सुरालयप्रधाने तु देवदेवं महेश्वरम् ।
शैलाधिराजतनया सङ्ग्रहे तमुवाच ह ॥ १॥
श्रीदेव्युवाच
परमेष्ठिन्परन्धाम प्रधान परमेश्वर ।
नाम्नां सहस्रम्बगलामुख्याद्या ब्रूहि वल्लभ ॥ २॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् ।
परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥ ३॥
गुह्याद्गुह्यतरन्देवि सर्वसिद्धैकवन्दितम् ।
अतिगुप्ततरविद्या सर्वतन्त्रेषु गोपिता ॥ ४॥
विशेषतः कलियुगे महासिद्ध्यौघदायिनी ।
गोपनीयङ्गोपनीयङ्गोपनीयम्प्रयत्नतः ॥ ५॥
अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते ।
रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥ ६॥
स्तम्भिनी राजसैन्यानावादिनी परवादिनाम् ।
पुरा चैकार्णवे घोरे काले परमभैरवः ॥ ७॥
सुन्दरीसहितो देवः केशवः क्लेशनाशनः ।
उरगासनमासीनो योगनिद्रामुपागमत् ॥ ८॥
निद्राकाले च ते काले मया प्रोक्तः सनातनः ।
महास्तम्भकरन्देवि स्तोत्रवा शतनामकम् ॥ ९॥
सहस्रनाम परमवद देवस्य कस्यचित् ।
श्रीभगवानुवाच
शृणु शङ्कर देवेश परमातिरहस्यकम् ॥ १०॥
अजोहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः ।
गोपनीयम्प्रयत्नेन प्रकाशात्सिद्धिहानिकृत् ॥ ११॥
ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य
भगवान्सदाशिव ऋषिरनुष्टुप्छन्दश्श्रीजगद्वश्यकरी
पीताम्बरी देवता सर्वाभीष्टसिद्ध्यर्त्थे जपे विनियोगः ॥
अथ ध्यानम्
पीताम्बरपरीधानां पीनोन्नतपयोधराम् ।
जटामुकुटशोभाढ्याम्पीतभूमिसुखासनाम् ॥ १२॥
शत्रोर्जिह्वां मुद्गरञ्च बिभ्रतीम्परमाङ्कलाम् ।
सर्वागमपुराणेषु विख्याताम्भुवनत्रये ॥ १३॥
सृष्टिस्थितिविनाशानामादि भूतामहेश्वरीम् ।
गोप्या सर्वप्रयत्नेन शृणु ताङ्कथयामि ते ॥ १४॥
जगद्विध्वंसिनीन्देवीमजरामरकारिणीम् ।
तान्नमामि महामायामहदैश्चर्यदायिनीम् ॥ १५॥
प्रणवम्पूर्वमुद्धृत्य स्थिरमायान्ततो वदेत् ।
बगलामुखी सर्वेति दुष्टानावाचमेव च ॥ १६॥
मुखम्पदं स्तम्भयेति जिह्वाङ्कीलय बुद्धिमत् ।
विनाशयेति तारञ्च स्थिरमायान्ततो वदेत् ॥ १७॥
वह्निप्रियान्ततो मन्त्रश्चतुर्वर्गफलप्रदः
...............................................................................
सम्पूर्ण पाठ हेतु कृपया मेरे फेस बुक पेज का अवलोकन करें |
फेसबुक पेज https://fb.watch/acsC6Riwro/
फेस बुक https://fb.watch/acrm6Dsrot/
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: