Saubhagya Kavach Stotram / सौभाग्य कवच स्तोत्रं Pt R K Vyas Palki 9414849604
Автор: Rajendra Kumar Vyas Palji
Загружено: 2026-03-10
Просмотров: 556
Описание:
Join this channel to get access to perks:
/ @kavitarkvyaspalji1334
॥ श्रीसौभाग्यकवचस्तोत्रम्॥
॥ पूर्वपीठिका ॥
कैलासशिखरे रम्ये सुखासीनं सुरार्चितं
गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः ।
प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः
रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥
श्रीशिवोवाच -
शृणु देवि! प्रवक्ष्यामि यस्मात् त्वं परिपृच्छसि
यस्य श्रवणमात्रेण भवभीतिर्न जायते ।
एतत् सौभाग्यकवच रहस्यातिरहस्यकं
सौभाग्यकवचं देवि! शृणु सौभाग्यदायकम् ॥
विनियोगः - अस्य श्रीसौभाग्यकवचस्तोत्रस्य
श्रीआनन्दभैरव ऋषिः । अनुष्टुप् छन्दः ।
श्रीसौभाग्यसुन्दरी देवता । ॐ क्लीं सौः बीजम् ।
ह्रीं क्लीं शक्तिः । आं ह्रीं क्रों कीलकम् ।
सर्वसौभाग्यसिद्ध्यर्थे पाठे विनियोगः ॥
ऋष्यादिन्यासः -
शिरसि - श्रीआनन्दभैरवाय ऋषये नमः ।
मुखे - अनुष्टुप्छन्दसे नमः ।
हृदि - श्रीसौभाग्यसुन्दरीदेवतायै नमः ।
गुह्ये - ॐ क्लीं सौः बीजाय नमः ।
पादयोः - ह्रीं क्लीं शक्तये नमः ।
नाभौ - आं ह्रीं क्रों कीलकाय नमः ।
सर्वाङ्गे -सर्वसौभाग्यसिद्ध्यर्थे पाठे विनियोगाय नमः।
करन्यासः -
ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः॥
अङ्गन्यासः -
ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा ।
सौः शिखायै वषट । ऐं कवचाय हुं ।
क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ॥
ध्यानं -
ऐहिकपरफलदात्रीमैशानीं मनसि भावये मुद्राम् ।
ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥ १॥
क्लीबत्वदैत्यहन्त्री क्लिन्नमनस्कां महेश्वराश्लिष्टाम् ।
क्लृप्तजनेष्टकर्त्रीं कल्पितलोकप्रभां नमामि कलाम् ॥ २॥
सौभाग्यदिव्यकनिधिं सौरभकचवृन्दविचलदलिमालाम् ।
सौशील्यशेषतल्पां सौन्दर्यविभामञ्जरीं कलये ॥ ३॥
पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् ।
यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ॥ ४॥
हेमाद्रौ हेमपीठस्थितामखिलसुरैरीड्यमानां विराजत् ।
पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषातिरक्ताम् ॥ ५॥
दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्याञ्चितैः स्व ।
भ्रष्टैः क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥ ६॥
कवचस्तोत्रं -
शिखाग्रं सततं पातु मम त्रिपुरसुन्दरी ।
शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥ १॥
नित्यक्लिन्नाऽवताद्दक्षं भेरुण्डा तस्य पश्चिमम् ।
वह्निवासिन्यवेद् वामं मुखं विद्येश्वरी तथा ॥ २॥
शिवदूती ललाटं मे त्वरिता तस्य दक्षिणम् ।
तद्वामपार्श्वमवतात् तथैव कुलसुन्दरी ॥ ३॥
नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी ।
वामभ्रुवं तु विजया नयनं सर्वमङ्गला ॥ ४॥
ज्वालामालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी ।
दक्षश्रोत्रं महानित्या वामं पातु महोद्यमा ॥ ५॥
दक्षं वामं च वटुका कपोलौ क्षेत्रपालिका ।
दक्षनासापुटं दुर्गा तदन्यं तु भारती ॥ ६॥
नासिकाग्रं सदा पातु महालक्ष्मीर्निरन्तरम् ।
अणिमा दक्षकटिं महिमा च तदन्यकम् ॥ ७॥
दक्षगण्डं च गरिमा लघिमा चोत्तरं तथा ।
ऊर्ध्वोष्ठकं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ॥ ८॥
ईशित्वमूर्ध्वदन्तांश्च ह्यधोदन्तान् वशित्वकम् ।
रससिद्धिश्च रसनां मोक्षसिद्धिश्च तालुकम् ॥ ९॥
तालुमूलद्वयं ब्राह्मीमाहेश्वर्यौ च रक्षताम् ।
कौमारी चिबुकं पातु तदधः पातु वैष्णवी ॥ १०॥
कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादधः ।
कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ॥ ११॥
सर्वसङ्क्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् ।
तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् ॥ १२॥
आकर्षणी वश्यमुद्रा चोन्मादिन्यथ दक्षिणम् ।
भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ॥ १३॥
वामकक्षं बीजमुद्रा योनिमुद्रा तु दक्षिणम् ।
लसत् त्रिखण्डिनीमुद्रा वामभागं प्रपालयेत् ॥ १४॥
श्रीकामाकर्षिणी नित्या रक्षताद् दक्षकूर्परम् ।
कूर्परं वाममवतात् सा बुद्ध्याकर्षिणी तथा ॥ १५॥
अहङ्काराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् ।
शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकाऽवतु ॥ १६॥
प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् ।
रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ॥ १७॥
गन्धाकर्षिणिका वामं चित्ताकर्षिणिकाऽवतु ।
करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ॥ १८॥
स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् ।
बीजाकर्षिणिका पायात् सततं दक्षिणाङ्गुलीः ॥ १९॥
आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् ।
शरीराकर्षिणी वामनखान् रक्षतु सर्वदा ॥ २०॥
अनङ्गकुसुमा शक्तिः पातु दक्षिणस्तनोपरि ।
अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ॥ २१॥
अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः ।
रक्षतादनिशं देवी ह्यनङ्गःमदनातुरा ॥ २२॥
अनङ्गरेखा वामं तु वक्षोज तस्य चूचुकम् ।
अनङ्गवेगिनी क्रोडमनङ्गास्याङ्कुशाऽवतु ॥ २३॥
अनङ्गमालिनी पायाद् वक्षःस्थलमहर्निशम् ।
सर्वसङ्क्षोभिणी शक्तिर्हृत् सर्वद्राविणी परा ॥ २४॥
कुक्षिं सर्वाकर्षिणी तु पातु पार्श्वं च दक्षिणम् ।
आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी चिरम् ॥ २५॥
सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी ।
वशङ्करी वस्तिदेशं सर्वरञ्जिनी मे कटिम् ॥ २६॥
सा तु सर्वोन्मादिनी मे पायाज्जघनमण्डलम् ।
सर्वार्थसाधिनी शक्तिः नितम्बं रक्षतान्मम ॥ २७॥
दक्षस्फिचं सदा पातु सर्वसम्पत्तिपूरिणी ।
सर्वमन्त्रमयी शक्तिः पातु वामस्फिचं मम ॥ २८॥
पायात् कुकुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी ।
सर्वसिद्धिप्रदा देवी पातु दक्षिण वङ्क्षणम् ॥ २९॥
सर्वसम्पत्प्रदा देवी पातु मे वामवङ्क्षणम् ।
सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ॥ ३०॥
मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ॥ ३१॥
पायात् तदन्यमुष्कं तु सर्वदुःखविमोचिनी ।
सर्वमृत्युप्रशमनी देवी पातु गुदं मम ॥ ३२॥
पातु देवी गुह्यमध्यं सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी देवी रक्षताद् दक्षसक्थिकम् ॥ ३३॥
वामसक्थितलं पायात् सर्वसौभाग्यदायिनी ।
अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ॥ ३४॥
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: