बटुक भैरव ब्रह्म कवच सिद्धि महाविद्या के साथ
Автор: महाशक्ति सिद्धविद्या
Загружено: 2025-05-25
Просмотров: 5053
Описание:
बटुक भैरव ब्रह्म कवच सिद्धि महाविद्या के साथ @Mahashaktisiddhvidya #batukbhairav #mahavidya #maa #bagalamukhi #tantra #mantra #kali #dhumavati
।। अथ श्रीबटुक-भैरव ब्रह्मकवचम् ।।
।। श्रीदेव्युवाच ।।
भगवन् सर्ववेत्ता त्वं देवानां प्रीतिदायकम्।
भैरवं कवचं ब्रूहि यदि चाऽस्ति कृपा मयि ।।१।।
प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।
सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ।।२।।
इत्थं देव्या वचः श्रुत्वा प्रहस्याऽति स्वयं प्रभुः।
उवाच वचनं तत्र देवदेवो महेश्वरः ।।३।।
।। ईश्वर उवाच ।।
बटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे। चण्डिकातन्त्र-सर्वस्व-बटुकस्य विशेषतः ।।४।।
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।
शङ्खवर्णद्वयो ब्रह्मा बटुकं चन्द्रशेखरः ।।५।।
आपदुद्वारणो देवो भैरवः परिकीर्त्तितः।
प्रवक्ष्यामि समासेन चतुर्वर्णप्रसिद्धये ।।६।।
प्रणवं कामदं विद्या लज्जाबीजं च सिद्धिदम्।
बटुकायेति विज्ञेयं महापातक-नाशनम्।।७।।
आपदुद्धारणायेति त्वापदुद्धारणं नृणाम्।
कुरुद्वयं महेशानि मोहने परिकीर्त्तितम् ।।८।।
द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।।९।।
विनियोगः - -
ॐ अस्य श्रीबटुकभैरव-ब्रह्मकवचस्य भैरव ऋषिः अनुष्टुप्छन्दः श्रीबटुकभैरवो देवता मम् बटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ।
ॐ पातु शिरसि नित्यं पातु ह्रीं कण्ठदेशके ।।१०।।
बटुकाय पातु नाभौ चापदुद्धारणाय च।
कुरुद्वयं लिङ्गमूले त्वाधारे बटुकाय च।।११।।
सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च।
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ।।१२।।
ॐ ह्रीं बटुकाय सततं सर्वाङ्ग मम सर्वदा।
ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि।।१३।।
ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।
गणराट् पातु जिह्वायामष्टभिः शक्तिभिः सह।।१४।।
ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवी-सहितस्तथा।
ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्ग मम सर्वदा ।।१५।।
ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका। असिताङ्गः शिरः पातु ललाटं रुरुभैरवः ।।१६।।
चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।
उन्मत्तभैरवः पातु हृदयं मम सर्वदा।।१७।।
नाभिदेशे कपाली च लिङ्गे भीषणभैरवः
संहारभैरवः पातु मूलाधारं च सर्वदा ।।१८।।
बाहुयुग्मं 'सदा पातु भैरवो मम केवलम्।
हंसबीजं हृदि पातुसोऽहं रक्षतु पादयोः ।।१९।।
प्राणापानौ समानं च उदानं व्यानमेव च।
रक्षतु हारमूले च दशदिक्षु समं ततः ।॥२०॥
प्रणवः पातु सर्वाङ्ग लज्जाबीजं महाभये।
फलश्रुति - -
इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ।।२१।।
चुतर्वर्गप्रदं नित्यं स्वयं देवप्रकाशितम्।
यः पठेच्छृणुयान्नित्यं धारयेत् कवचोत्तमम् ।।२२।।
सदानन्दमयो भूत्वा लभते परमं पदम् ।
य इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ।।२३।।
कोटिजन्मार्जितं पापं विनश्यति च तत्क्षणात् । जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसंकटे ।।२४।।
कवचं स्मरणाद्देवि सर्वत्र विजयी भवेत् ।
भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ।।२५।।
कामतुल्यस्तु नारीणां रिपूणां च यमोपमः।
तस्य पादाम्बुजं द्वन्द्वं राज्ञां मुकुट-भूषणम् ।।२६।।
तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः।
अस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ।।२७।।
इदं कवचमज्ञात्वा यो जपेद् बटुकं नरः।
न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ।। २८ ।।
मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते।
इहलोके महारोगी दारिद्रयेणाऽतिपीडितः ।। २९ ।।
शत्रूणां वशगो भूत्वा करपात्री भवेज् जडः।
देयं पुत्राय शिष्याय शान्ताय प्रियवादिने।।३०।।
कार्पण्यरहितायाऽलं बटुभक्तिरताय च।
यः परस्मै प्रदाता वै तस्य तस्याऽतिसत्वरम् ।।३१।।
आयुर्विद्या यशो धर्मो बलं नश्यन्त्यसंशयम् ।
इति ते कथितं देवि गोपनीयं स्वयोनिवत् ।।३२।।
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: