GARUD KAVACHAM गरुडकवचम् (वनस्थ योगी श्री६श्री गुरु श्रीशिवदत्त स्मारक गड्डी , जोधपुर ) 9414849604
Автор: Rajendra Kumar Vyas Palji
Загружено: 2022-02-12
Просмотров: 1731
Описание:
॥अथ गरुडकवचम्॥
हरिः ॐ अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य
नारद भगवान् ऋषिःवैनतेयो देवता
अनुष्टुप्छन्दःश्रीवैनतेयप्रीत्यर्थे जपे विनियोगः।
ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः॥१॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः।
सूर्येतालू च कण्ठे च भुजौ पातु महाबलः॥२॥
हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः॥३॥
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा।
नाभिं पातु महातेजाः कटिं मे पातु वायुनः॥४॥
ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा।
पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा॥५॥
रोमकूपानि मे वीरो त्वचं पातु भयापहा।
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम्॥६॥
यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति।
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः।
द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः॥७॥
॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम्॥
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: