Vishnupurana (English) — Amsa 3 — Adhyaya 1 — Slokas 1-34 — Session 1
Автор: Lectures on Sanskrit texts
Загружено: 2025-07-16
Просмотров: 80
Описание:
#vishnupurana #Sridhariyam #vishnu #purana #saptadvipa #islands
• Vishnupurana - Amsa 3 - English
The Vishnu Purana is one of the eighteen Mahapuranas, and it primarily focuses on the teachings about Lord Vishnu. The text is believed to have been composed between the 3rd and 5th centuries CE, and it consists of six parts, or amshas, each of which contains several chapters. It is believed to have been said Saga Parāśara
Viṣṇupurāṇa - Amśa 3 - Session 1
प्रथमाध्याये श्लोकाः १ - ३४
(Explanation in English by Smt Visalakshi Sankaran)
॥ अथ तृतीयोंशः ॥
॥ अथ प्रथमोऽध्यायः ॥
(मन्वन्तरवर्णनम्)
श्रीमैत्रेय उवाच
कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः ।
सूर्यादीनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥१॥
देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता ।
चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥२॥
ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् ।
मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥३॥
मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् ।
भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥४॥
श्रीपराशर उवाच
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक्कथयामि यथाक्रमम् ॥५॥
स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥६॥
षडेते मनवोऽतीताः साम्प्रतं तु रवेस्सुतः ।
वैवस्वतोऽयं यस्यैतत् सप्तमं वर्ततेऽन्तरम् ॥७॥
स्वायम्भुवं तु कथितं कल्पादावन्तरं मया ।
देवास्सप्तर्षयश्चैव यथावत्कथिता मया ॥८॥
अत ऊर्ध्वं प्रवक्ष्यामि मनोस्स्वारोचिषस्य तु ।
मन्वन्तराधिपान्सम्यग्देवर्षींस्तत्सुतांस्तथा ॥९॥
पारावतास्सतुषिता देवास्स्वारोचिषेऽन्तरे ।
विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥१०॥
ऊर्ज्जः स्तम्भस्तथा प्राणो वातोऽथ पृषभस्तथा ।
निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥११॥
चैत्रकिंपुरुषाद्याश्च सुतास्स्वारोचिषस्य तु ।
द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥१२॥
तृतीयेऽप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः ।
सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत् सुरेश्वरः ॥१३॥
सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः ।
वशवर्तिनश्च पञ्चैते गणा द्वादशकास्स्मृताः ॥१४॥
वसिष्ठतनया ह्येते सप्त सप्तर्षयोऽभवन् ।
अजः परशुदीप्ताद्यास्तथोत्तममनोस्सुताः ॥१५॥
तामसस्यान्तरे देवास्सुपारा हरयस्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥१६॥
शिबिरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षणः ।
सप्तर्षयश्च ये तेषां तेषां नामानि मे शृणु ॥१७॥
ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वनकस्तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥१८॥
नरः ख्यातिः केतुरूपो जानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥१९॥
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः ।
मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥२०॥
अमिताभा भूतरया वैकुण्ठास्ससुमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥२१॥
हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथापरः ।
वेदबाहुस्सुधामा च पर्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्र तत्रासन् रैवतेऽन्तरे ॥२२॥
बलबन्धुश्च संभाव्यस्सत्यकाद्याश्च तत्सुताः ।
नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥२३॥
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवस्स्मृताः ॥२४॥
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेतॉल्लब्धवानात्मवंशजान् ॥२५॥
षष्ठे मन्वन्तरे चासीच्चाक्षुषाख्यस्तथा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥२६॥
आप्याः प्रसूता भव्याश्च पृथुकाश्च दिवौकसः ।
महानुभावा लेखाश्च पञ्चैते ह्यष्टका गणाः ॥२७॥
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥२८॥
ऊरुः पूरुश्शतद्युम्नप्रमुखास्सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥२९॥
विवस्वतः सुतो विप्र श्राद्धदेवो महाद्युतिः ।
मनुस्संवर्तते धीमान् साम्प्रतं सप्तमेऽन्तरे ॥३०॥
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ।
पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥३१॥
वशिष्ठः काश्यपोऽथात्रिर्जमदग्निस्सगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥३२॥
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागोऽरिष्ट एव च ॥३३॥
करूषश्च पृषध्रश्च सुमहाँल्लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥३४॥
The text in Sanskrit along with English translation is available at
https://archive.org/details/vishnu-pu...
Bhagavata Mahatmyam playlist
• Srimad-bhagavata-mahatmyam
Srimad bhagavatam with the commentary of Sridhara Swamin
Skanda 1 - • Srimad-bhagavatam Skandha 01
Skanda 2 - • Srimad-bhagavatam Skandha 02
Skanda 3 - • Srimad-bhagavatam Skandha 03
Skanda 3 - • Srimad-bhagavatam Skandha 03
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: