suktirasamritam explaination
Автор: Study_organizer
Загружено: 2023-08-13
Просмотров: 94
Описание:
सूक्तिरसामृतम् संस्कृत सूक्तियाँ (हिन्दी अर्थ सहित) ,
Amritam Sanskrit Class 8 Chapter 1,
Amritam Sanskrit Pathmala Class 8 Chapter -1 Suktirasamritam,
अमृतम् संस्कृत पाठमाला क्लास 8 चैपटर 1 सूक्तिरसामृतम् ,
अमृतम् संस्कृत पाठमाला कक्षा 8 पाठ 1 सूक्तिरसामृतम्,
1 - पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः।।
2 - मातेव रक्षति पितेव हिते नियुंक्ते कान्तेव चापि रमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम् किं किं न साधयति कल्पलतेव विद्या ॥
3 - उद्द्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
दैवं प्रधानमिति कापुरुषा वदन्ति |
दैवं विहाय कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोSत्र दोषः ||
4 - पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
5 - गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः।
सुस्वादुतोयाः प्रभवन्ति नद्यः, समुद्रमासाद्य भवन्त्यपेयाः॥
6 - निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु ।
लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम् ।।
अधैव वा मरणमस्तु युगान्तरे वा ।
न्याय्यात्पथ: प्रविचलन्ति पदं न धीरा: ।।
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: