Shri Batuk Bhairava Stotram 2 | Temple chant | Dark edit.
Автор: Arindam Chakraborty
Загружено: 2026-02-07
Просмотров: 529
Описание:
Shri Batuk Bhairava Stotram 2 | Temple chant | Dark edit.
#aigenerated
#music
#transcendentexperience
#hindudeity
#song
#metal
#guitar
#trancemusic
#bass
#electronicmusic
#shiva
#shivatrance
#shivabhakti
#batukbhairav
#bhairav
#bholenath
#bholebaba
#bhairavstotra
Lyrics (Traditional)
ध्यानः
वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम् । दिव्याकल्पैर्नव-मणि-मयैः, किंकिणी-नूपुराढ्यैः ॥
दीप्ताकारं विशद-वदनं, सुप्रसन्नं त्रि-नेत्रम् । हस्ताब्जाभ्यां बटुकमनिशं, शूल-दण्डौ दधानम् ॥
मानस-पूजनः
उक्त प्रकार 'ध्यान' करने के बाद, श्रीबटुक-भैरव का मानसिक पूजन करे-ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः ।
ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भैरव-प्रीतये समर्पयामि नमः ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः ।
ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः ।
ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भैरव-प्रीतये समर्पयामि नमः ।
मूल-स्तोत्र
ॐ भैरवो भूत-नाथश्च, भूतात्मा भूत-भावनः । क्षेत्रज्ञः क्षेत्र-पालश्च, क्षेत्रदः क्षत्रियो विराट् ॥ 1 ॥
श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत् । रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः ॥ 2 ॥
कंकालः कालः-शमनः, कला-काष्ठा-तनुः कविः । त्रि-नेत्रो बहु-नेत्रश्च, तथा पिंगल-लोचनः ॥ 3 ॥
शूल-पाणिः खड्ग-पाणिः, कंकाली धूम्र-लोचनः । अभीरुभैरवी-नाथो, भूतपो योगिनी-पतिः ॥ 4 ॥
धनदोऽधन-हारी च, धन-वान् प्रतिभागवान् । नागहारो नागकेशो, व्योमकेशः कपाल-भृत् ॥ 5 ॥
कालः कपालमाली च, कमनीयः कलानिधिः । त्रि-नेत्रो ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत् ॥ 6 ॥
त्रिवृत्त-तनयो डिम्भः शान्तः शान्त-जन-प्रिय । बटुको बटु-वेषश्च, खद्वांग-वर-धारकः ॥ 7 ॥
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः । धूर्ते दिगम्बरः शौरिर्हरिणः पाण्डु-लोचनः ॥ 8 ॥
प्रशान्तः शान्तिदः शुद्धः शंकर-प्रिय-बान्धवः अष्ट-मूर्तिर्निधीशश्च, ज्ञान-चक्षुस्तपो-मयः ॥ 9
अष्टाधारः षडाधारः, सर्प-युक्तः शिखी-सखः । भूधरो भूधराधीशो, भूपतिर्भूधरात्मजः ॥10 ॥
कपाल-धारी मुण्डी च, नाग-यज्ञोपवीत-वान् । जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा ॥ 11 ||
शुद्द-नीलाञ्जन-प्रख्य-देहः मुण्ड-विभूषणः । बलि-भुग्बलि-भुङ्-नाथो, बालोबाल-पराक्रम ॥ 12 ॥
सर्वापत्-तारणो दुर्गों, दुष्ट-भूत-निषेवितः । कामीकला-निधिःकान्तः, कामिनी-वश-कृद्वशी ॥13॥
जगद्-रक्षा-करोऽनन्तो, माया-मन्त्रौषधी-मयः । सर्व-सिद्धि-प्रदो वैद्यः, प्रभ-विष्णुरितीव हि ॥ 14 ॥
॥ फल-श्रुति ॥
अष्टोत्तर-शतं नाम्नां, भैरवस्य महात्मनः । मया ते कथितं देवि, रहस्य सर्व-कामदम् ॥ 15 ॥
य इदं पठते स्तोत्रं, नामाष्ट-शतमुत्तमम् । न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा ॥ 16 ||
न शत्रुभ्यो भयं किञ्चित्, प्राप्नुयान्मानवः क्वचिद् । पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः ॥ 17
मारी-भये राज-भये, तथा चौराग्निजे भये ।
मारी-भये राज-भये, तथा चौराग्निजे भये । औत्पातिके भये चैव, तथा दुःस्वप्नजे भये ॥ 18 ||
बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य-धीः । सर्वं प्रशममायाति, भयं भैरव-कीर्तनात् ॥ 19 ||
॥ क्षमा-प्रार्थना ॥
आवाहनङ न जानामि, न जानामि विसर्जनम् । पूजा-कर्म न जानामि, क्षमस्व परमेश्वर ॥
मन्त्र-हीनं क्रिया-हीनं, भक्ति-हीनं सुरेश्वर । मया यत्-पूजितं देव परिपूर्ण तदस्तु मे ॥
॥ इति श्रीबटुक भैरव स्तोत्रम् सम्पूर्णम् ॥
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: