Nitishtakam || Vidvat Padhdhati || Shloka Vachan || {श्लोक 12-21} || नीतीशतकं विद्वत् पद्धति
Автор: संस्कृत संगम
Загружено: 2022-12-15
Просмотров: 18366
Описание:
@prachidwivedi1103
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ १५॥
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदायत् सर्वदा-
ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिषं प्राप्नोति वृद्धिं पराम् ।।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान् प्रतितान् मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १६॥
अधिगतपरमार्थान् पण्डितान् पण्डितान् मावमंस्ता-
स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धितान् संरुणद्धि ।
अभिनवमदलेखाश्यामगण्डस्थलानां
न भवति विषतन्तुर्वारणं वारणानाम् ॥ १७॥
अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १८॥
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ २०॥
क्षान्तिश्चेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्या न वन्द्या यदि
व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१॥
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ २२॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ २३॥
जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं भयम् ॥ २४॥
My other channel:-
/ @prachidwivedi1103
Please like, comment and share my video and please subscribe to my channel and press the bell icon 🙏🙏🙏🙏🚩🚩🚩🌺🌺🌺🌺🌷🌷🌷🌺🙏🌺🙏🌺🙏🙏🚩🚩
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: