गर्दभः कः?/Natak /संस्कृत लघु चलचित्र/Drama / Sanskrit Short film / The Sanskrit Education/ Jha Sir
Автор: The Sanskrit Education
Загружено: 2023-01-16
Просмотров: 5667
Описание:
गर्दभः कः?/ Natak / संस्कृत लघु चलचित्र /Drama / Sanskrit Short film /Credis - Dr. Vijay Kumar Singh || Maitreyi film presentation || सुखधर: - Dr. Uday Prakash Jha || The Sanskrit Education ||
#sanskritnatak #sanskrit #drama #natak
दृश्य- गांव/मोहल्ले के कूंआ में गिरा हुआ गधा,ढेंचू ढेंचू की आवाज निकालता हुआ।
ग्रामीणः १ – अरे! रे,रे ।किम् जातम् , किमर्थम् एतावान् कोलाहलः ।कः उच्चैः उच्चैः भसति?
ग्रामीण-महिला१- को स्यात् , वैशाखनन्दनः। स्व ढेंचू ढेंचू ध्वनिना अद्य अयं मम निद्रां अभञ्जयत्।
ग्रामीणः ३ –पश्य पश्य कूपे गर्दभः पतितः वर्तते।
ग्रामीण-४- पश्य अयं रासभः अत्र निगूढोऽस्ति, ह्यः मम भित्तिम् पातित्वा पलायितः।
ग्रामीण-५- दुष्टोऽयं मम सम्पूर्णं कृषिक्षेत्रम् एव नाशितवान् । सर्वं शस्यं इतस्ततः कृतवान्।
ग्रामीण-महिला २- अरे त्यजतु । अन्यत् सर्वं यत् जातम् तत् जातम् । सर्वप्रथमं एनं गर्दभं कूपात् निष्कास्यामः।
सर्वैः – न न एनं गर्दभं अत्रैव त्यजामः।
ग्रामीण-७ – नन भ्रातरः । अयं तु सर्वेषां जनानाम् अपराधी अस्ति। अतः एनं तु कूपे एव मृतिकया आच्छाद्य मारयामः।
ग्रामीण-१ श्रान्तःजातः। अहं चिन्तयामि गर्दभः तु दिवङ्गतः।
ग्रामीण-२सत्यं अधुना तस्य ध्वनिः न आयाति।
ग्रामीण-महिला ३- कूपः अपि व्यर्थः अस्ति। एतस्मात् कूपात् कोऽपि जलं न पिबति।
सम्यक् अभवत् कूपः अपि मृत्तिकापूरितः। गर्दभोऽपि समाधिम् गतः।
सर्वे- अस्तु अधिकः समयः जातः गृहं चलामः।
दृश्य- समान ही केवल खुशखबर का प्रवेश।
खुशखबर: - ईश्वर: यत् करोति तत् शोभनम् एव करोति। किम् चिन्तयन्ति भवन्त: गर्दभःदिवंगतः ? न न! सः तु स्वस्य उपरि पतितां मृत्तिकाम् अधः पातयित्वा-पातयित्वा कूपात् बहिरागतः ।
रजकः - हे मम प्रिय गर्दभः त्वं पुत्र असि? अरे मम प्रियतम गर्दभः कुत्र असि रे....
गर्दभः - ढेचूं-ढेचूं
रजकः - अत्रैव अस्ति अहं भवन्तं सर्वत्र अन्विष्टवान् परन्तु भवान् तु गृहस्य पृष्ठतः
एव प्राप्तः।
गर्दभः - रात्रौ यदा अहं भसामि स्म किं तदा मम ध्वनि त्वया न श्रुता ।
रजकः - सत्यं वदामि न श्रुता।
गर्दभः – (व्यंग्य से) अद्य एव न मम ध्वनिः त्वया कदापि न श्रुतः।
रजकः - अरे मम जनकः, त्यजतु यत् व्यतीतम् । क्ष्म्यताम्। चलतु शीघ्रं गृहे बहु
कार्यम् अस्ति । बहु विलम्बः जातः।
गर्दभः –अरे सत्यम् वदन्ति जनाः। कार्यम् आगच्छति तर्हि गर्दभोऽपि पिता भवति।
नैव गच्छामि।
रजकः - अहो! भवतः प्रगल्भता, भवान् गर्दभः न्यूनः मनुष्यः अधिकः दृश्यते।
अधुना तव भाषा मानवभाषा जाता ।
गर्दभः- अहं एतदेव बोधितुम् इच्छामि यत् अहं स्व गर्दभत्वं त्यक्त्वा मनुष्यत्वम् प्रति
गच्छन् अस्मि यतोहि मनुष्यः मनुष्यत्वम् विहाय गर्दत्वम् अङ्गीकृतम्। रजकः- तत् कथम्?
गर्दभः- तर्हि शृणोतु यदा अहं मार्गे मनुष्यैः सह चलामि तदा त्वं माम् पृष्ठतः
आह्वयति – अरे! ..गर्दभः कुत्र गच्छसि? तदा अहं परिवर्त्य न पश्यामि
अपितु मया सह गच्छन्तः मानवाः एव प्श्यन्ति। तर्हि वदतु भवान् गर्दभः
कः? अहं अथवा मानवाः
रजकः- भवान् तु सम्यक्
सुखधरः:- अहो अद्भुतं तर्क-वितर्क- सामर्थ्यम्।हे वैशाखनन्दन! भवतः कथनशैली माम् बारं बारम् आकर्षयति । गर्दभे अनेकाः सम्भावना: सन्ति ।
रजक:- काः,का: सम्भावना: सन्ति ? वदतु श्रीमन् !
सुखधरः:- भवतः गर्दभः नेता भवितुम् अर्हति, कविः भवितुम अर्हति, वाक्कील: भवितुम् शक्यते न जाने किं किं भवितुम् अर्हति । अहं तु वदामि यत् गर्दभं राजनीतौ प्रवेशयतु यतोहि राजनीतौ तु बहवः गर्दभाः विलसन्ति । अयं गर्दभः तु ज्ञानवान् अस्ति ।
रजक:- तत् कथम् भवति भगवन! मम प्रिय -मित्रवरः सुखधरः।
सुखधरः- शृणोतु मम प्रिय मित्रवरः, मम नाम अस्ति सुखधरः अहं एनं गर्दभं राजनीतौ दीक्षां दापयामि कूटनीतिं पाठयित्वा राजनेतारं करिष्यामि। काञ्चित् योजनाम् कृत्वा कस्यचित् दलस्य विधायकं कारिष्यामि।
रजक:- अस्तु शृणोतु मम प्रियमित्रवर सुखधर! एनं करोतु नेतारम् पुनः मिलामि षड्मासान्तरम्
दृश्य परिवर्तन
(कार्यकर्ता के साथ नेता आता हैं मंच की ओर )
कार्यकर्ता -अस्माकं नेता मण्डूकराय: त्रिवारम् (3)
जीतः जीत: मण्डूक राय: - त्रिवारम् - (3) (मंच का सीन जेता जी का भाषण )
नेता- अयि! मम भ्रातरः भगिन्यः,आत्मीयमित्राणि, उपस्थितान् सर्वान् जनताजनार्दान् प्रणमामि ।अयं विजयः केवलं मम एव न सर्वेषां अस्ति । अस्मिन् प्रजातन्त्रे जनता एव जनार्दनः भवति । अहं भवतः क्षेत्रे विद्यालयं, महाविद्यालयं, चिकित्सालयं च मासाभ्यान्तरे निर्मामि।
मिडिया 4 (नेता जी से प्रश्न करतारता है) अहं श्रुतवान् यत् भवान् स्व क्षेत्रे कार्यं न कृतवान् तदा जनाः भवतः मुखे कज्जलं लेपयित्वा गर्दर्भं आरुह्य नगरभ्रमणं कारितवन्तः। एतादृशी स्थितिः पुनः तु न भविष्यति।
नेता - न न अहं सर्वं कार्यं करिष्यामि ।
( सुखधर और धोबी के बीच बातचीत एक कोने में)
रजक:- सुखधर! मम गर्दभः कुत्र अस्ति? …
सुखधर:- पश्य पश्य भवतः गर्दभः विधायकः अभवत्। कथं भाषणं कृतवान् । दृष्टवान्। पश्यतु अधुना पत्रकारैः सह साक्षात्कारं करोति।
(धोबी हाथ मे हरी घास लेकर मंच की ओर आते हुए चिल्लाते हुए)
राजक:- अरे मम गर्दभ:
पत्रकार: - किम् वदति - किं वदति ?
रजकः - अयं नेता नः अयं तु मम गर्दभ: ।
पत्रकार: - (नेता से) महोदय अयं तु भवन्तं गर्दभ: वदति....
नेता - अरे किम् वदति (सुरक्षाकर्मी कीओर देखते हुए)
एषः मूर्खः कथम् जलपतिः ।(सुरक्षा कर्मी धोबी की ओर देखता है)
रजकः - अरे अधुना तु मां विस्मरति एव सर्वे नेता विस्मरणशीला एव भवति। अधुना तु एतानि तृणानि न खादन्ति ।
कृषकस्य उर्वरकं खादति, मार्गस्य तारकोलं खादति, पशुनां खाद्यं खादति, सैनिकानाम् आयुधं खादति । न जाने भवान् किम्-किम् खदति? मम दुर्भाग्यम्! खुशखबर कारणेन भवन्तं नेतारं कृतवान्।
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: