ycliper

Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
Скачать

श्री मद् भागवत महापुराण के प्रमुख श्लोक !! shri mad bhagwat ke kuchh pramukh shlok !! yatharth path

Автор: Yatharth Path

Загружено: 2022-06-16

Просмотров: 16324

Описание: इस वीडियो में श्री मद भागवत महापुराण के कुछ मुख्य श्लोकों का गायन किया गया है जो की सभी को सुनने में अच्छा लगे
प्रत्येक स्कंध के श्लोकों का गायन है अतः इसे जरूर सुने



श्री मद् भागवत महापुराण के प्रमुख श्लोक !! shri mad bhagwat ke kuchh pramukh shlok !! yatharth path




सच्चिदानंद रूपाय विश्वोत्पत्यादिहेतवे!
तापत्रय विनाशाय श्री कृष्णाय वयं नम:

यं प्रव्रजन्तमनुपेतमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव 
पुत्रेति तन्मयतया तरवोभिनेदुस्तं
सर्वभूतहृदयं मुनिमानतोस्मि 

जयति जगति मायां यस्य कायाधवस्ते
वचन-रचनमेकं केवलं चाकलय्य
ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं
सकल-कुशलपात्रं ब्रह्मपुत्रं नताऽस्मि

भाग्योदयेन बहुजन्म समर्जितेन, 
सत्संगमम् च लभते पुरुषो यदावै।
अज्ञानहेतुकृतमोह मदान्धकार​ 
नाशं बिधाय हि तदोदयते विवेक​:

सकलभुवनमध्ये निर्धनास्तेऽपि धन्या
निवसति हृदि येषां श्रीहरेर्भक्तिरेका।
हरिरपि निजलोकं सर्वथातो विहाय
प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः


देहेस्थिमांस रूधिरेभिमतिं त्यजत्व
जाया सुतादिषु सदा ममतां विमुञ्च
पश्यानिशं जगदिदं क्षणभंगुनिष्ठं
वैराग्यराग रसिको भव भक्तिनिष्ठः

धर्मं भजस्व सततं त्यज लोक धर्मान​
 सेवस्य साधुपुरुषाञ्जहि कामतृष्णाम​
अन्यस्य दोषगुणचिन्त​न माशुमुक्त्वा
सेवाकथा रसमहो नितरां पिवत्वम॥


 जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि


धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम्।
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः 
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्


निगम कल्पतरोर्गालितं फलं
शुक मुखादमृत द्रव्यसंयुतम 
पिवत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः

यः स्वानुभावमखिलश्रुतिसारमेक
मध्यात्मदीप मतितिर्षतां तमोन्धम्
संसारिणां करुणयाह पुराणगुह्मं
तं व्याससूनुमुपयामि गुरुं मुनीनाम्

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मन्त्रःसमिद्दर्भपात्राणि च
त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः


त्वं पुरा गां रसाया महासूकरो द्रष्ट्या पद्मिनीं वारणेन्द्रो यथा ।
स्तूयमानो नदल्लीलया योगिभिर् व्यज्जुहर्थं त्वयीगात्र यज्ञक्रतुः ॥

योन्तः प्रविश्य मम वाचमिमां प्रसुप्तां 
           संजावयत्यखिलशक्तिधरः स्वधाम्ना |
अन्यांश्च हस्तचरणश्रवणत्वगादीन
           प्राणान्नमो भगवते पुरुषाय तुभ्यम्



श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वासमञ्जस त्वा विरहय्य काङ्‌क्षे ॥


अजातपक्षा इव मातरं खगा:स्तन्यं यथा वत्सतरा: क्षुधार्ता: ।
प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिद‍ृक्षते त्वाम् ॥ 


ममोत्तमश्लोकजनेषु सख्यंसंसारचक्रे भ्रमत: स्वकर्मभि: ।
त्वन्माययात्मात्मजदारगेहे-ष्वासक्तचित्तस्य न नाथ भूयात् ॥

स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते ।
ब्रह्मर्षिणां तप: साक्षान्मन्ये त्वाऽर्य वपुर्धरम्

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्‌भ्यां प्रियायाः
पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम्।
वैरूप्याच्छूर्पणख्याः प्रियविरहरुषारोपित-भ्रू-विजृम्भ
त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः

सत्यव्रतं सत्यपरं त्रिसत्यं
सत्यस्य योनिं निहितं च सत्ये।
सत्यस्य सत्यमृतसत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः।।


नंदस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः
आहूय विप्रान्वेदज्ञान् स्नातः शुचिरलंकृतः


 नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
     गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
 वन्यस्रजे कवलवेत्रविषाणवेणु
     लक्ष्मश्रिये मृदुपदे पशुपाङ्‌गजाय 


"कात्यायनि महामाये , महायोगिन्यधीश्वरी।

नन्दगोपसुतं देवीं, पतिं मे कुरु ते नमः।।


मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः।
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनाम्
वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः


नायं जनो मे सुखदु ख-हेतु
र्न देवताऽऽत्मा ग्रह-कर्म-कालाः
मनः परं कारणमामनन्ति
संसार-चक्रं परिवर्तयेद् यत्॥


कायेन वाचा मनसेंद्रियैर्वा |
बुद्ध्यात्मना वानु श्रितस्वभावात्|
करोति यद्यत् सकलं परस्मै |
नारायणायेति समर्पयेतत्

ध्येयं सदा परिभवघ्नमभीष्टदोहं  तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
 भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं  वन्दे महापुरुष ते चरणारविन्दम् ॥


 त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् ।
 मायामृगं दयितयेप्सितमन्वधावद्  वन्दे महापुरुष ते चरणारविन्दम् ॥ 


नाम  संकीर्तनं यस्य  सर्व पाप प्रणाशनम् ।
 प्रणामो दुःख शमनस तं नमामि हरिं परम् ॥ 

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
तेन त्वदंघ्रि कमले रतिं मे यक्ष शास्वतीम्।।

यं प्रव्रजन्तमनुपेतमपेतकृत्यं
#shri_mad_bhagvat_shlok
#bhagvat_important_shlok
#yatharthpath

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
श्री मद् भागवत महापुराण के प्रमुख श्लोक !! shri mad bhagwat ke kuchh pramukh shlok !! yatharth path

Поделиться в:

Доступные форматы для скачивания:

Скачать видео

  • Информация по загрузке:

Скачать аудио

Похожие видео

© 2025 ycliper. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]