Sarvamangaladaayineeyam (Sanskrit)
Автор: Piyush Shah
Загружено: 2021-04-10
Просмотров: 38
Описание:
सर्वमङ्गलदायिनीयम्...
सर्वमङ्गलदायिनीयम्
दिव्यमानवसंस्कृतिः
वसतु मामकहृदयकमले
लसतुभारतभूतले
सर्वमङ्गलदायिनीयम्
पावनेऽस्मिन् भरतदेशे
ऋषिवराणां जन्मगेहे
तुङ्गहिमनगराजितेऽस्मिन्
संस्कृताश्रितसंस्कृतिः
सर्वमङ्गलदायिनीयम्
पूर्वजानां गहनतपसा
फुल्लसंस्कृतभव्यकमलम्
अनवरतमिदममृतमतुलम्
पूरयतु नवसौरभम्
सर्वमङ्गलदायिनीयम्
वहतु पुनरियमार्यभुवने
कविभिरनिशं सेविता
मुनिभिरार्जितमन्त्रनिनदैः
संस्कृता सुरभारती
सर्वमङ्गलदायिनीयम्
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: