Niti satakam ath murkh paddhati | murkh paddhati | श्लोक १-११ | संस्कृत नीतिशतकम् मूर्खपद्धति
Автор: Sanskrit dhara काशी
Загружено: 2023-11-22
Просмотров: 22433
Описание:
Niti satakam ath murkh paddhati | murkh paddhati | श्लोक १-११ | संस्कृत नीतिशतकम् मूर्खपद्धति #tgt
Nitishtakam | murkh paddhati | shlok arth | श्लोक १-११ | नीतिशतकं मुर्खपद्धति व्याख्या #tgtsanskrit
Bihar Tgt, Pgt manglacharan #nitishatakam
मंगलाचरणः-
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकनामाय नमः शान्ताय तेजसे ॥ १॥
अथ मूर्ख पद्धति-
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥२॥
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विग्धं ब्रह्मापि नरं न रञ्जयति ॥ ३॥
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरा -
त्समुद्रमपि संतरेत्प्रचलदुर्मिमालाकुलम् ॥
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये
न्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४॥
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन्शशविषाणमासादयेन्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५॥
व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते
छेत्तुं वज्रमणीं शिरीषकुसुमप्रान्तेन सन्नह्यति ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६॥
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजेविभूषणं मौनमपण्डितानाम् ॥ ७॥
यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८॥
कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरूपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपितमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९॥
शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।
अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १०॥
• Purvmegh | Shlok Vyakhya | श्लोक 4 | Meghd...
• Mandakranta Chhand । मंदाक्रांता छंद Manda...
• Discover the Beauty of उत्तररामचरितम् तृती...
• Shakuntala by Kalidasa अभिज्ञानशाकुन्तलम्...
please like share and subscribe
https://youtube.com/@Sanskritdhara819...
#भर्तृहरि_नीति_शतक
UGC_NET_JRF_सोनम_संस्कृतधाराकाशी
#tgtsanskrit
#pgtsanskrit
#shikharini_chhand
#harini_chhand
#murkh #paddhati
#nitishatakam
#भर्तृहरि नीति शतक
Murkh paddhati
murkh paddhati ka saransh
niti shatakam murkh paddhati
nitishatakam sanskrit slokas
niti shatakam in sanskrit
bhartrihari neeti shatak
नीतिशतक के श्लोक
bhartrihari nitishatakam
nitishatak ke shlok
nitishatak ka manglacharan
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: