श्री दत्तात्रेय प्रोक्त सौभाग्याष्टोत्तरशतनाम स्तोत्रम् | Saubhagya Ashtottara Shatanama Stotram
Автор: Granthamrut ग्रंथामृत
Загружено: 2024-10-31
Просмотров: 19958
Описание:
श्री दत्तात्रेय प्रोक्त सौभाग्याष्टोत्तरशतनाम स्तोत्रम्
सौभाग्याष्टोत्तरशतनाम स्तोत्रम्
Saubhagya Ashtottara Shatanama Stotram
सौभाग्य अष्टोत्तरशतनाम स्तोत्रम्
सौभाग्य अष्टोत्तरशतनाम स्तोत्र
Saubhagya Ashtottara Shatanama Stotra
निशम्यैतज्जामदग्यो माहात्म्यं सर्वतोऽधिकम् ।
स्तोत्रस्य भूयः पप्रच्छ दत्तात्रेयं गुरूत्तमम् ॥ १ ॥
भगवन् त्वन्मुखाम्भोजनिर्गमद्वाक्सुधारसम्।
पिबतः श्रोत्रमुखतो वर्धतेऽनुक्षणं तृषा ॥ २ ॥
अष्टोत्तरशतं नाम्नां श्रीदेव्या यत्प्रसादतः ।
कामः सम्प्राप्तवान् लोके सौभाग्यं सर्वमोहनम् ॥ ३ ॥
सौभाग्यविद्यावर्णानामुद्धारो यत्र संस्थितः।
तत्समाचक्ष्व भगवन् कृपया मयि सेवके ॥ ४ ॥
निशम्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः।
प्रोवाच भार्गवं रामं मधुराऽक्षरपूर्वकम् ॥ ५ ॥
शृणु भार्गव यत्पृष्टं नाम्नामष्टोत्तरं शतम् ।
श्रीविद्यावर्णरत्नानां निधानमिव संस्थितम् ॥ ६ ॥
श्रीदेव्या बहुधा सन्ति नामानि शृणु भार्गव ।
सहस्रशतसङ्ख्यानि पुराणेष्वागमेषु च ॥ ७ ॥
तेषु सारतमं ह्येतत्सौभाग्याष्टोत्तरात्मकम् ।
यदुवाच शिवः पूर्वं भवान्यै बहुधार्थितः ॥ ८ ॥
सौभाग्याष्टोत्तरशतनामस्तोत्रस्य भार्गव ।
ऋषिरुक्तः शिवश्छन्दोऽनुष्टुप् श्रीललिताम्बिका ॥ ९ ॥
देवता विन्यसेत्कूटत्रयेणावर्त्य सर्वतः ।
ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत् ॥ १० ॥
अथ स्तोत्रम् ॥
कामेश्वरी कामशक्तिः कामसौभाग्यदायिनी।
कामरूपा कामकला कामिनी कमलासना ।। ११ ।।
कमला कल्पनाहीना कमनीयकलावती ।
कमलाभारतीसेव्या कल्पिताऽशेषसंसृतिः ॥ १२ ॥
अनुत्तराऽनघाऽनन्ताऽद्भुतरूपाऽनलोद्भवा। अतिलोकचरित्राऽतिसुन्दर्यतिशुभप्रदा ॥ १३ ॥
अघहन्त्र्यतिविस्ताराऽर्चनतुष्टाऽमितप्रभा ।
एकरूपैकवीरैकनाथैकान्ताऽर्चनप्रिया ॥ १४ ॥
एकैकभावतुष्टैकरसैकान्तजनप्रिया । एधमानप्रभावैधद्भक्तपातकनाशिनी ॥ १५ ॥
एलामोदमुखैनोऽद्रिशक्रायुधसमस्थितिः । ईहाशून्येप्सितेशादिसेव्येशानवराङ्गना ॥ १६ ॥
ईश्वराऽऽज्ञापिकेकारभाव्येप्सितफलप्रदा । ईशानेतिहरेक्षेषदरुणाक्षीश्वरेश्वरी ॥ १७॥
ललिता ललनारूपा लयहीना लसत्तनुः ।
लयसर्वा लयक्षोणिर्लयकर्णी लयात्मिका ॥ १८ ॥
लघिमा लघुमध्याऽऽढ्या ललमाना लघुद्रुता ।
हयाऽऽरूढा हताऽमित्रा हरकान्ता हरिस्तुता ॥ १९ ॥
हयग्रीवेष्टदा हालाप्रिया हर्षसमुद्धता ।
हर्षणा हल्लकाभाङ्गी हस्त्यन्तैश्वर्यदायिनी ॥ २० ॥
हलहस्तार्चितपदा हविर्दानप्रसादिनी ।
राम रामाऽर्चिता राज्ञी रम्या रवमयी रतिः ॥ २१ ॥
रक्षिणी रमणी राका रमणीमण्डलप्रिया ।
रक्षिताऽखिललोकेशा रक्षोगणनिषूदिनी ॥ २२ ॥
अम्बान्तकारिण्यम्भोजप्रियाऽन्तकभयङ्करी।
अम्बुरूपाम्बुजकराम्बुजजातवरप्रदा ॥ २३॥
अन्तःपूजाप्रियान्तःस्वरूपिण्यन्तर्वचोमयी।
अन्तकारातिवामाङ्कस्थितान्तःसुखरूपिणी ॥ २४ ॥
सर्वज्ञा सर्वगा सारा समा समसुखा सती।
सन्ततिः सन्तता सोमा सर्वा साङ्ख्या सनातनी ॥ २५ ॥
अथ फलश्रुतिः ॥
एतत्ते कथितं राम नाम्नामष्टोत्तरं शतम् ।
अतिगोप्यमिदं नाम्नः सर्वतः सारमुद्धृतम् ॥ २६ ॥
एतस्य सदृशं स्तोत्रं त्रिषु लोकेषु दुर्लभम्।
अप्रकाश्यमभक्तानां पुरतो देवताद्विषाम् ॥ २७ ॥
एतत् सदाशिवो नित्यं पठन्त्यन्ये हरादयः।
एतत्प्रभावात्कन्दर्पस्त्रैलोक्यं जयति क्षणात् ॥ २८ ॥
सौभाग्याष्टोत्तरशतनामस्तोत्रं मनोहरम् ।
यस्त्रिसन्ध्यं पठेन्नित्यं न तस्य भुवि दुर्लभम् ॥ २९ ॥
श्रीविद्योपासनवतामेतदावश्यकं मतम् ।
सकृदेतत्प्रपठतां नान्यत्कर्म विलुप्यते ॥ ३० ॥
अपठित्वा स्तोत्रमिदं नित्यं नैमित्तिकं कृतम् ।
व्यर्थीभवति नग्नेन कृतं कर्म यथा तथा ॥ ३१ ॥
सहस्रनामपाठादावशक्तस्त्वेतदीरयेत् ।
सहस्रनामपाठस्य फलं शतगुणं भवेत् ॥ ३२ ॥
सहस्रधा पठित्वा तु वीक्षणान्नाशयेद्रिपून्।
करवीररक्तपुष्पैर्दुत्वा लोकान् वशं नयेत् ॥ ३३ ॥
स्तम्भेयत् श्वेतकुसुमैर्नीलैरुच्चाटयेद्रिपून् ।
मरिचैर्विद्वेषणाय लवङ्गैर्व्याधिनाशने ॥ ३४ ॥
सुवासिनीर्बाह्मणान् वा भोजयेद्यस्तु नामभिः ।
यश्च पुष्पैः फलैर्वापि पूजयेत् प्रतिनामभिः ॥ ३५ ॥
चक्रराजेऽथवान्यत्र स वसेच्छ्रीपुरे चिरम्।
यः सदा वर्तयन्नास्ते नामाष्टशतमुत्तमम् ।
तस्य श्रीललिता राज्ञी प्रसन्ना वाञ्छितप्रदा ॥ ३६ ॥
इति श्रीत्रिपुरारहस्ये माहात्म्यखण्डे षड्विंशोऽध्याये
दत्तात्रेय प्रोक्त सौभाग्याष्टोत्तरशतनाम स्तोत्रम् ।
maa laxmi mantra
Maa Laxmi: • Maa Laxmi
#granthamrut
#ग्रंथामृत
#prosperity
#mantra for prosperity
#Prosperity mantra
#Saubhagya ashtottara shatanama stotram
#श्री सौभाग्य अष्टोत्तर शतनाम स्तोत्र
#mantra for money
#Success mantra
#mantra to get rich
#laxmi mantra
#stotram
#stuti
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: