Purvmegh || Shlok Vachan || (11-20 श्लोक) || Meghdutam Vachan || मेघदूतम्
Автор: संस्कृत संगम
Загружено: 2023-01-25
Просмотров: 15138
Описание:
#shlok #sanskrit #tgt #tgtsanskrit #meghdut #vachan
कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यां
तच्छ्रुत्व अ ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ १२॥
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम्
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीनः क्षीणः परिलघु पयः स्रोतसं चोपभुज्य ॥ १३॥
अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर्
द्र्ष्टोत्साहच्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४॥
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद्
वल्मीकाग्रात् प्रभवति वल्मीकाग्रात् धनुष्खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५॥
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयमवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८॥
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः
जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २०॥
कालिदास रचित मेघदूत ( पूर्वमेघ ) || श्लोक- १ - १०
• Purvmegh || Shlok Vachan || (1-10 श्लोक) ...
My other channel:-
/ @prachidwivedi1103
Email - [email protected]
Please like, comment and share my video and please subscribe to my channel and press the bell icon 🙏🙏🙏🙏🚩🚩🚩🌺🌺🌺🌺🌷🌷🌷🌺🙏🌺🙏🌺🙏🙏🚩🚩
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: