श्रीमद्भागवतम् — भावार्थदीपिका — Skandha 04 — Chapter 15 — Slokas 13-22 — Session 69
Автор: Lectures on Sanskrit texts
Загружено: 2026-02-24
Просмотров: 25
Описание:
#Srimadbhagavatam #Sridhariyam #Krishna #bhavarthadipika #commentary #daksha #shiva #sati
Śrīmad-bhāgavatam along with the commentary Bhāvārthadīpikā of Sridhara Svami
चतुर्थः स्कन्धः — Session 69
पञ्चदशाध्याये श्लोकाः १३ - २२
॥ अथ पञ्चदशोऽध्यायः ॥
सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः ।
पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः ॥१३॥
तस्मै जहार धनदो हैमं वीरवरासनम् ।
वरुणः सलिलस्रावमातपत्रं शशिप्रभम् ॥१४॥
वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् ।
इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥१५॥
ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।
हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम् ॥१६॥
दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका ।
सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् ॥१७॥
अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।
भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥१८॥
नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः ।
ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥१९॥
सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।
सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥२०॥
स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् ।
मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् ॥२१॥
पृथुरुवाच
भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुनास्पष्टगुणस्य मे स्यात् ।
किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥२२॥
Mahatmyam playlist
• Srimad-bhagavata-mahatmyam
Srimad bhagavatam with the commentary of Sridhara Swamin
Skandha 1 - • Srimad-bhagavatam Skandha 01
Skandha 2 - • Srimad-bhagavatam Skandha 02
Skandha 3 - • Srimad-bhagavatam Skandha 03
Skandha 4 - • Srimad-bhagavatam Skandha 04
(Explanation in Tamil by Smt Visalakshi Sankaran)
The text along with Sanskrit commentary by Sridharaswamin is available at
https://archive.org/details/bhagavata...
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: